Sukta 10.12
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे । अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीताम् ॥
arcā́mi vāṃ vardhā́yāpo ghṛtasnū́ dyā́vābhūmī śṛṇutáṃ rodasī me | ahā́ yád dyā́vo 'sú-nītim áyan mádhvā no átra pitarā́ śiśītām ||
I chant to you for your increase—O Waters that stream with the clarified light, O Heaven-and-Earth, hear my call, O two Worlds. When the luminous heavens bring the leading of the life-breath, then here may the two Fathers sharpen for us the sweetness—may they make our inner offering keen and effective.
अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ । अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे । अहा । यत् । द्यावः । असुनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥arcāmi | vām | vardhāya | apaḥ | ghṛtasnūitighṛta-snū | dyāvābhūmī iti | śṛṇutam | rodasī iti | me | ahā | yat | dyāvaḥ | asu-nītim | ayan | madhvā | naḥ | atra | pitarā | śiśītām