Sukta 10.12
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी । विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥
svā́vṛk devásyāmṛ́taṃ yadī́ góra tó jātā́so dhārayanta urvī́ | víśve devā́ ánu tát te yájur gur duhè yád enī́ divyáṃ ghṛtáṃ vā́ḥ ||
When the wide ones, born from the cow’s source, uphold the god’s immortality, then all the gods follow your sacred formula. They milk, as it were, the divine ghee from the two bright ones.
स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ । विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति । विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥svāvṛk | devasya | amṛtam | yadi | goḥ | ataḥ | jātāsaḥ | dhārayante | urvī iti | viśve | devāḥ | anu | tat | te | yajuḥ | guḥ | duhe | yat | enī | divyam | ghṛtam | vārit ivāḥ