Sukta 10.12
देवो देवान्परिभूॠतेन वहा नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥
दे॒वो दे॒वान्प॑रि॒भूॠ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् । धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥
devó devā́n paribhū́ ṛténa váhā no havyáṃ prathamáś cikitvā́n | dhūmakétuḥ samidhā́ bhā́ṛjīko mandró hótā nítyo vācā́ yajī́yān ||
The god, surpassing the gods by the Truth, bring our offering—first, and knowing. With smoke for his banner, flaming by the kindling, the rapturous Hotṛ, eternal, more to be worshipped by the word, carries the sacrifice.
दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् । धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥देवः । देवान् । परिभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् । धूमकेतुः । सम्इधा । भाःऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥devaḥ | devān | pari-bhūḥ | ṛtena | vaha | naḥ | havyam | prathamaḥ | cikitvān | dhūma-ketuḥ | sam-idhā | bhāḥ-ṛjīkaḥ | mandraḥ | hotā | nityaḥ | vācā | yajīyān