Sukta 10.12
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मर्तान्यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥
द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ । दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन्त्सीद॒द्धोता॑ प्र॒त्यङ्स्वमasuं॒ यन् ॥
dyā́vā ha kṣā́mā prathamé ṛténa abhiśrāvé bhavataḥ satyavā́cā | devó yán martā́n yajáthāya kṛṇván sī́dad dhótā pratyáṅ svám asúṃ yán ||
Heaven and Earth, in the beginning, by the Truth became famed for their true speech. When the god, making mortals fit for sacrifice, sat down as the invoking priest, he turned inward, moving toward his own life-breath.
द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ । दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिश्रावे । भवतः । सत्यवाचा । देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥dyāvā | ha | kṣāmā | prathame iti | ṛtena | abhi-śrāve | bhavataḥ | satya-vācā | devaḥ | yat | martān | yajathāya | kṛṇvan | sīdat | hotā | pratyaṅ | svam | asum | yan