Sukta 10.119
अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् । कुवित्सोमस्यापामिति ॥
अ॒हं तष्टे॑व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
aháṃ táṣṭeva vandhúraṃ páry acāmi hṛdā́ matím | kuvít sómasyāpā́m ití ||
I, like a craftsman, shape and circle around the frame; with the heart I fashion the thought. Perhaps it is from the Soma’s waters that this skilled inner making proceeds.
अ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥अहम् । तष्टाइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् । कुवित् । सोमस्य । अपाम् । इति ॥aham | taṣṭāiva | vandhuram | pari | acāmi | hṛdā | matim | kuvit | somasya | apām | iti