Sukta 10.119
दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् । कुवित्सोमस्यापामिति ॥
दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषम् । कु॒वित्सोम॒स्यापा॒मिति॑ ॥
diví me anyáḥ pakṣó ’dhó anyám acīkṛṣam | kuvít somásyāpā́m íti ||
One wing of my being I have set in the luminous heaven; the other I have fashioned below. Might this be from the Waters of Soma—so I say within.
दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् । कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥दिवि । मे । अन्यः । पक्षः । अधः । अन्यम् । अचीकृषम् । कुवित् । सोमस्य । अपाम् । इति ॥divi | me | anyaḥ | pakṣaḥ | adhaḥ | anyam | acīkṛṣam | kuvit | somasya | apām | iti