Sukta 10.117
समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते । यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते । य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ॥
samáu cidd hástāu ná samáṃ viviṣṭaḥ sammā́tarā cín ná samáṃ duhāte | yamáyoś cín ná samā́ vīryā̀ṇi jñātī́ cít sántau ná samáṃ pṛṇītaḥ ||
Even two hands that seem alike do not move with an equal power; even two mothers do not yield the same milk. Even in twins, the strengths are not identical; even among kinsmen who are together, there is not an equal giving. Therefore let the seeker learn: the inner force differs in each vessel, and one must awaken in oneself the true plenitude that can offer rightly.
स॒मौ । चि॒त् । हस्तौ॑ । न । स॒मम् । वि॒वि॒ष्टः । स॒म्ऽमा॒तरा॑ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति॑ । य॒मयोः॑ । चि॒त् । न । स॒मा । वी॒र्या॑णि । ज्ञा॒ती इति॑ । चि॒त् । सन्तौ॑ । न । स॒मम् । पृ॒णी॒तः॒ ॥समौ । चित् । हस्तौ । न । समम् । विविष्टः । सम्मातरा । चित् । न । समम् । दुहाते इति । यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः ॥samau | cit | hastau | na | samam | viviṣṭaḥ | sam-mātarā | cit | na | samam | duhāteiti | yamayoḥ | cit | na | samā | vīryāṇi | jñātī iti | cit | santau | na | samam | pṛṇītaḥ