Sukta 10.116
प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः । अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥
प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः । अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥
préndrāgníbhyāṃ suvacasyā́m iyarmi síndhāv iva prérayaṃ nā́vam arkáiḥ | ayā́ iva pári caranti devā́ ye asmábhyaṃ dhanadā́ udbhídaś ca ||
To Indra and Agni I set my speech in a clear and fortunate movement; with my hymns I launch it like a boat upon the river. The gods who move around us like guiding currents—those who give the riches and break open the closed places—may they act for our becoming.
प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः । अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥प्र । इन्द्राग्निभ्याम् । सुवचस्याम् । इयर्मि । सिन्धौइव । प्र । ईरयम् । नावम् । अर्कैः । अयाःइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनदाः । उत्भिदः । च ॥pra | indrāgni-bhyām | su-vacasyām | iyarmi | sindhau-iva | pra | īrayam | nāvam | arkaiḥ | ayāḥ-iva | pari | caranti | devāḥ | ye | asmabhyam | dhana-dāḥ | ut-bhidaḥ | ca