Sukta 10.115
ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् । त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः ॥
ū́rjo napāt sahasā́van íti tvopastutásya vandate vṛ́ṣā vāk | tvā́ṃ stóṣāma tváyā su-vī́rā drā́ghīya ā́yuḥ pratáraṃ dádhānāḥ ||
O child of the Force of plenitude, O mighty one—so the victorious Word bows to you, when you are rightly praised. We will affirm you; by you may we become rich in heroic powers, bearing a longer life and a more forward-going progress.
ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥ऊर्जः । नपात् । सहसावन् । इति । त्वा । उपस्तुतस्य । वन्दते । वृषा । वाक् । त्वाम् । स्तोषाम । त्वया । सुवीराः । द्राघीयः । आयुः । प्रतरम् । दधानाः ॥ūrjaḥ | napāt | sahasāvan | iti | tvā | upa-stutasya | vandate | vṛṣā | vāk | tvām | stoṣāma | tvayā | su-vīrāḥ | drāghīyaḥ | āyuḥ | pra-taram | dadhānāḥ