Sukta 10.115
एवाग्निर्मर्तैः सह सूरिभिर्वसुः ष्टवे सहसः सूनरो नृभिः । मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥
ए॒वाग्निर्मर्तै॑: स॒ह सू॒रिभि॒र्वसु॑: ष्टवे॒ सह॑सः सू॒नरो॒ नृभि॑: । मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ॥
evā́gnír mártaiḥ sahá sūríbhir vásuḥ stávé sáhasaḥ sū́naro nṛ́bhiḥ | mitrā́so ná yé su-dhítā ṛtā́yavo dyā́vo ná dyumnáir abhí sánti mā́nuṣān ||
Thus may Agni, the bright Good (Vasu), be affirmed by mortals together with the illumined leaders; like a strong son of might among men. Like the Mitras—well-established in right understanding, travellers of Ṛta—like the heavens with their splendors, they stand over and around the human being, pressing him upward into a greater light.
ए॒व । अ॒ग्निः । मर्तैः॑ । स॒ह । सू॒रिऽभिः॑ । वसुः॑ । स्त॒वे॒ । सह॑सः । सू॒नरः॑ । नृऽभिः॑ । मि॒त्रासः॑ । न । ये । सुऽधि॑ताः । ऋ॒त॒ऽयवः॑ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । स॒न्ति॒ । मानु॑षान् ॥एव । अग्निः । मर्तैः । सह । सूरिभिः । वसुः । स्तवे । सहसः । सूनरः । नृभिः । मित्रासः । न । ये । सुधिताः । ऋतयवः । द्यावः । न । द्युम्नैः । अभि । सन्ति । मानुषान् ॥eva | agniḥ | martaiḥ | saha | sūri-bhiḥ | vasuḥ | stave | sahasaḥ | sūnaraḥ | nṛ-bhiḥ | mitrāsaḥ | na | ye | su-dhitāḥ | ṛta-yavaḥ | dyāvaḥ | na | dyumnaiḥ | abhi | santi | mānuṣān