Sukta 10.115
वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे । अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥
वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे । अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ॥
vā́jintamāya sáhyase su-pitrya tṛṣú cyávāno ánu jā́tavedase | anudré cíd yó dhṛ́ṣatā váraṃ saté mahíntamāya dhánvanéd aviṣyate ||
To the most force-ful, the conquering Power—O Agni of a good and luminous ancestry—moving through the thirsts (the inner heats), he follows Jātavedas. Even in the waterless (barren) state, he who dares and chooses the supreme boon, to that most vast One, in the field of the soul’s striving, he comes to be perfectly impelled (towards manifestation).
वा॒जिन्ऽत॑माय । सह्य॑से । सु॒ऽपि॒त्र्य॒ । तृ॒षु । च्यवा॑नः । अनु॑ । जा॒तऽवे॑दसे । अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर॑म् । स॒ते । म॒हिन्ऽत॑माय । धन्व॑ना । इत् । अ॒वि॒ष्य॒ते॒ ॥वाजिन्तमाय । सह्यसे । सुपित्र्य । तृषु । च्यवानः । अनु । जातवेदसे । अनुद्रे । चित् । यः । धृषता । वरम् । सते । महिन्तमाय । धन्वना । इत् । अविष्यते ॥vājin-tamāya | sahyase | su-pitrya | tṛṣu | cyavānaḥ | anu | jāta-vedase | anudre | cit | yaḥ | dhṛṣatā | varam | sate | mahin-tamāya | dhanvanā | it | aviṣyate