Sukta 10.115
वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः । आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥
वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाता॒: परि॒ सन्त्यच्यु॑ताः । आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये॑ ॥
ví yásya te jrayasāná syā́jara dhákṣor ná vātā́ḥ pári sánty ácyutāḥ | ā́ raṇvā́so yúyudhayo ná satvánam tritáṃ náśanta prá śíṣanta iṣṭáye ||
Around your unaging blaze, when it is urged to speed, the winds as it were move, unshaken. Joyous energies, like warriors, reach the stronghold; they press forward, they train themselves for the fulfillment of the sought offering.
वि । यस्य॑ । ते॒ । ज्र॒य॒सा॒नस्य॑ । अ॒ज॒र॒ । धक्षोः॑ । न । वाताः॑ । परि॑ । सन्ति॑ । अच्यु॑ताः । आ । र॒ण्वासः॑ । युयु॑धयः । न । स॒त्व॒नम् । त्रि॒तम् । न॒श॒न्त॒ । प्र । शि॒षन्तः॑ । इ॒ष्टये॑ ॥वि । यस्य । ते । ज्रयसानस्य । अजर । धक्षोः । न । वाताः । परि । सन्ति । अच्युताः । आ । रण्वासः । युयुधयः । न । सत्वनम् । त्रितम् । नशन्त । प्र । शिषन्तः । इष्टये ॥vi | yasya | te | jrayasānasya | ajara | dhakṣoḥ | na | vātāḥ | pari | santi | acyutāḥ | ā | raṇvāsaḥ | yuyudhayaḥ | na | satvanam | tritam | naśanta | pra | śiṣantaḥ | iṣṭaye