Sukta 10.115
तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् । आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥
तं वो॒ विं न द्रु॒षदं॑ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ॑न्तं प्र॒वप॑न्तमर्ण॒वम् । आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रज॑न्त॒मध्व॑नः ॥
táṃ vo víṃ ná druṣádaṃ devám ándhasa índuṃ próthantaṃ prá-vapantam arṇavám | āsā́ váhniṃ ná śóciṣā́ vi-rapśínaṃ máhi-vrataṃ ná sarájantaṃ ádhvanaḥ ||
Him we seek for you, the god seated firm, the Soma-essence swelling and surging like an ocean. Like a bearer with flame, of far-reaching power, like one of vast vow pressing on the path, he speeds onward.
तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् । आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥तम् । वः । विम् । न । द्रुसदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्रवपन्तम् । अर्णवम् । आसा । वह्निम् । न । शोचिषा । विरप्शिनम् । महिव्रतम् । न । सरजन्तम् । अध्वनः ॥tam | vaḥ | vim | na | dru-sadam | devam | andhasaḥ | indum | prothantam | pra-vapantam | arṇavam | āsā | vahnim | na | śociṣā | vi-rapśinam | mahi-vratam | na | sarajantam | adhvanaḥ