Sukta 10.115
अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता । अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥
अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑म॒: सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता । अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥
agnír ha nā́ma dhāyi dánn apástamaḥ sáṃ yó vánā yuváte bhásmanā datā́ | abhípramurā́ juhvā́ svadhvará inó ná próthamāno yávase vṛ́ṣā ||
Agni indeed is set by name, the giver, most mighty in works; he who unites the forests, consuming them into ash. With the ladle he presses forward in the good rite, like a masterful force spreading wide, a bull for the nourishment.
अ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता । अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥अग्निः । ह । नाम । धायि । दन् । अपःतमः । सम् । यः । वना । युवते । भस्मना । दता । अभिप्रमुरा । जुह्वा । सुअध्वरः । इनः । न । प्रोथमानः । यवसे । वृषा ॥agniḥ | ha | nāma | dhāyi | dan | apaḥ-tamaḥ | sam | yaḥ | vanā | yuvate | bhasmanā | datā | abhi-pramurā | juhvā | su-adhvaraḥ | inaḥ | na | prothamānaḥ | yavase | vṛṣā