Sukta 10.114
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः । श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥
भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः । श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥
bhū́myā antáṃ pár yéke caranti ráthasya dhū́rṣu yuktā́so asthuḥ | śrám asya dā́yaṃ ví bhajanty ebhyo yadā́ yamó bhávati harmyé hitáḥ ||
Some move around the boundary of the Earth; yoked, they stand at the chariot’s poles. They distribute to these the portion of the labor, when Yama comes to be set in the house—established within.
भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ । श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःसु । युक्तासः । अस्थुः । श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥bhūmyāḥ | antam | pari | eke | caranti | rathasya | dhūḥ-su | yuktāsaḥ | asthuḥ | śramasya | dāyam | vi | bhajanti | ebhyaḥ | yadā | yamaḥ | bhavati | harmye | hitaḥ