Sukta 10.112
नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥
नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् । न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥
ní ṣú sīda gaṇapate gaṇéṣu tvā́m āhur vípratamaṃ kavīnā́m | ná ṛté tvát kriyate kíṃ canā́re mahā́m arkaṃ maghavāñ citrám arca ||
Sit down firmly, O Lord of the Hosts, among the hosts; thee they call the most inspired of the seers. Without thee nothing at all is accomplished, whether near or far. O Maghavan, chant the great and shining hymn of power.
नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् । न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥नि । सु । सीद । गणपते । गणेषु । त्वाम् । आहुः । विप्रतमम् । कवीनाम् । न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघवन् । चित्रम् । अर्च ॥ni | su | sīda | gaṇa-pate | gaṇeṣu | tvām | āhuḥ | vipra-tamam | kavīnām | na | ṛte | tvat | kriyate | kim | cana | āre | mahām | arkam | magha-van | citram | arca