Sukta 10.112
अभिख्या नो मघवन्नाधमानान्त्सखे बोधि वसुपते सखीनाम् । रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥
अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् । रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥
abhikhyā́ no maghavann ā́dhamānān sákhé bोधि vasupate sákhīnā́m | ráṇaṃ kṛdhi raṇakṛt satyaśuṣmā́bhakte cidā́ bhaja rā́ye asmā́n ||
Look upon us, O Maghavan, pressed down and striving; awaken as our friend, O Lord of riches, friend of friends. Create the victorious battle, O maker of victory, whose force is true; even in what is unallotted, apportion us to the plenitude of being.
अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् । रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥अभिख्या । नः । मघवन् । नाधमानान् । सखे । बोधि । वसुपते । सखीनाम् । रणम् । कृधि । रणकृत् । सत्यशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥abhi-khyā | naḥ | magha-van | nādhamānān | sakhe | bodhi | vasu-pate | sakhīnām | raṇam | kṛdhi | raṇa-kṛt | satya-śuṣma | abhakte | cit | ā | bhaja | rāye | asmān