Sukta 10.112
वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते । अस्माकं ते मधुमत्तमानीमा भुवन्त्सवना तेषु हर्य ॥
वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते । अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥
ví hí tvām indra purudhā́ jánāso hitáprayasó vṛṣabha hváyante | asmā́kaṃ te mádhumattamānīmā́ bhúvant sávanā téṣu harya ||
For many are the peoples, O Indra, who call thee, O Bull, with offerings set in place. But may these our pressings become for thee the most honey-full; in these Soma-offerings take thy delight and impel thy force.
वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते । अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितप्रयसः । वृषभ । ह्वयन्ते । अस्माकम् । ते । मधुमत्तमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥vi | hi | tvām | indra | purudhā | janāsaḥ | hita-prayasaḥ | vṛṣabha | hvayante | asmākam | te | madhumat-tamāni | imā | bhuvan | savanā | teṣu | harya