Sukta 10.112
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो । पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥
इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो । पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥
idáṃ te pā́traṃ sánavittam indra píbā sómam enā́ śatakrato | pūrṇá āhā́vo madirásya mádhvo yáṃ víśva íd abhiháryanti devā́ḥ ||
This is thy vessel, O Indra, won from of old; drink by it the Soma, O Shatakratu. Full is the call of the intoxicating honey—this Soma which all the gods indeed desire and bear toward themselves.
इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥इदम् । ते । पात्रम् । सनवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतक्रतो । पूर्णः । आहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिहर्यन्ति । देवाः ॥idam | te | pātram | sana-vittam | indra | piba | somam | enā | śatakrato itiśata-krato | pūrṇaḥ | āhāvaḥ | madirasya | madhvaḥ | yam | viśve | it | abhi--haryanti | devāḥ