Sukta 10.112
यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ । स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥
यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ । स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑: ॥
yasya śaśvát papivā́m̐ indra śátrūn anānukṛtyā́ raṇyā́ cakártha | sá te púraṃdhiṃ táviṣīm iyarti sá te mádāya sutá indra sómaḥ ||
O Indra, by whose perpetual drinking thou hast made the foes unable to follow—thou hast wrought the victorious delight. That pressed Soma sets in motion for thee the plenitude of right discernment and the force of thy might; it is for thy ecstasy of power.
यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ । सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥यस्य । शश्वत् । पपिवान् । इन्द्र । शत्रून् । अननुकृत्या । रण्या । चकर्थ । सः । ते । पुरम्धिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥yasya | śaśvat | papi-vān | indra | śatrūn | ananu-kṛtyā | raṇyā | cakartha | saḥ | te | puram-dhim | taviṣīm | iyarti | saḥ | te | madāya | sutaḥ | indra | somaḥ