Sukta 10.112
यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् । तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥
यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् । तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥
yásya tyát te mahimā́naṃ mádeṣv imé mahī́ ródasī nā́viviktām | tád óka ā́ háribhir indra yuktáiḥ priyébhir yāhi priyám annám áccha ||
Thy greatness in the ecstasies—by that these two vast worlds, Heaven and Earth, are not divided. To that home come, O Indra, yoked with thy beloved tawny steeds; come to the beloved food (the offering).
यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् । तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् । तत् । ओकः । आ । हरिभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥yasya | tyat | te | mahimānam | madeṣu | ime iti | mahī iti | rodasī iti | na | aviviktām | tat | okaḥ | ā | hari-bhiḥ | indra | yuktaiḥ | priyebhiḥ | yāhi | pr iyam | annam | accha