Sukta 10.112
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व । अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥
हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व । अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥
hár itvatā várcasā sū́ryasya śréṣṭhai rū́pais tanvàṃ sparśayasva | asmā́bhir indra sákhbhir huvānás sadhrícīno mādayasvā niṣádya ||
With the tawny radiance, with the Sun’s splendour, touch thy body with the best forms of light. Called by us, O Indra, by thy friends, come in a common direction; sit down and be gladdened with us.
हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ । अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व । अस्माभिः । इन्द्र । सखिभिः । हुवानः । सध्रीचीनः । मादयस्व । निसद्य ॥haritvatā | varcasā | sūryasya | śreṣṭhaiḥ | rūpaiḥ | tanvam | sparśayasva | asmābhiḥ | indra | sakhi-bhiḥ | huvānaḥ | sadhrīcīnaḥ | mādayasva | ni-sadya