Sukta 10.112
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि । तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥
यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि । तूय॒मा ते॒ हर॑य॒: प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥
yás te rátho mánaso javī́yān índra téna somapéyā́ya yāhi | tū́yam ā́ te hárayaḥ prá dravantu yébhir yā́si vṛ́ṣabhir mándamānaḥ ||
That chariot of thine which is swifter than mind—O Indra, come by it to the Soma-drinking. Let thy tawny horses run forth quickly, those strong bulls with which thou goest rejoicing.
यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ॒ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ । तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमपेयाय । याहि । तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषभिः । मन्दमानः ॥yaḥ | te | rathaḥ | manasaḥ | javīyān | ā | indra | tena | soma-peyāya | yāhi | tūyam | ā | te | harayaḥ | pra | dravantu | yebhiḥ | yāsi | vṛṣa-bhiḥ | mandamānaḥ