Sukta 10.112
इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः । हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥
इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः । हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥
índra píba pratikā́maṃ sutásya prātáḥsā́vas táva hí pū́rvapītiḥ | hárṣasva hántave śūra śátrūn ukthebhíṣ ṭe vīryā́ prá bravāma ||
Indra, drink the expressed Soma according to thy will; for the morning pressing is thy first draught. Exult to smite the foes, O hero; with our hymns we declare forth thy powers of victory.
इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः । हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥इन्द्र । पिब । प्रतिकामम् । सुतस्य । प्रातःसावः । तव । हि । पूर्वपीतिः । हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥indra | piba | prati-kāmam | sutasya | prātaḥ-sāvaḥ | tava | hi | pūrva-pītiḥ | harṣasva | hantave | śūra | śatrūn | ukthebhiḥ | te | vīryā | pra | bravāma