Sukta 10.111
सध्रीचीः सिन्धुमुशतीरिवायन्त्सनाज्जार आरितः पूर्भिदासाम् । अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥
स॒ध्रीची॒: सिन्धु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् । अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥
sadhrícīḥ síndhum uśatī́r ivā́yant sanā́j jā́ra ā́ritaḥ pū́rbhidāsām | ástamā́ te pārthivā́ vásūny asmḗ jagmuḥ sū́nṛtā indra pū́rvīḥ ||
Straight-together the rivers move to the ocean as if desiring; from of old the lover has been set in motion, the breaker of their cities. To your home have come the earthly riches for us, and many true utterances, O Indra, from the beginning.
स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् । अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥सध्रीचीः । सिन्धुम् । उशतीःइव । आयन् । सनात् । जारः । आरितः । पूःभित् । आसाम् । अस्तम् । आ । ते । पार्थिवा । वसूनि । अस्मे इति । जग्मुः । सूनृताः । इन्द्र । पूर्वीः ॥sadhrīcīḥ | sindhum | uśatīḥ-iva | āyan | sanāt | jāraḥ | āritaḥ | pūḥ-bhit | āsām | astam | ā | te | pārthivā | vasūni | asme iti | jagmuḥ | sūnṛtāḥ | indra | pūrvīḥ