Sukta 10.11
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥
वृषा॒ वृष्णे॑ दुदुहे॒ दोह॑सा दि॒वः पयां॑सि य॒ह्वो अदि॑ते॒रदा॑भ्यः । विश्वं॒ स वे॑द॒ वरु॑णो॒ यथा॑ धि॒या स य॒ज्ञियो॑ यजतु य॒ज्ञियाँ॑ ऋ॒तून् ॥
vṛ́ṣā vṛ́ṣṇe duduhe dóhasā diváḥ páyāṁsi yahvó ádite r adā́bhyaḥ | víśvaṁ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajatu yajñíyā́n ṛtū́n ||
The strong one for the strong has milked out, by the act of drawing, the heavenly streams; the impetuous, unfailing power of Aditi. Varuṇa knows all in the right fashion by the illumined thought; may that sacrificer within us sacrifice the sacred seasons of ṛta.
वृषा॑ । वृष्णे॑ । दु॒दु॒हे॒ । दोह॑सा । दि॒वः । पयां॑सि । य॒ह्वः । अदि॑तेः । अदा॑भ्यः । विश्व॑म् । सः । वे॒द॒ । वरु॑णः । यथा॑ । धि॒या । सः । य॒ज्ञियः॑ । य॒ज॒तु॒ । य॒ज्ञिया॑न् । ऋ॒तून् ॥वृषा । वृष्णे । दुदुहे । दोहसा । दिवः । पयांसि । यह्वः । अदितेः । अदाभ्यः । विश्वम् । सः । वेद । वरुणः । यथा । धिया । सः । यज्ञियः । यजतु । यज्ञियान् । ऋतून् ॥vṛṣā | vṛṣṇe | duduhe | dohasā | divaḥ | payāṃsi | yahvaḥ | aditeḥ | adābhyaḥ | viśvam | saḥ | veda | varuṇaḥ | yathā | dhiyā | saḥ | yajñiyaḥ | yajatu | yajñiyān | ṛtūn