Sukta 10.109
पुनर्वै देवा अददुः पुनर्मनुष्या उत । राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥
पुन॒र्वै दे॒वा अ॑ददु॒: पुन॑र्मनु॒ष्या॑ उ॒त । राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥
púnar vái devā́ adaduḥ púnar manuṣyā́ utá | rājā́naḥ satyáṁ kṛṇvānā́ brahmajāyā́ṁ púnar daduḥ ||
Again the gods gave her back; again men also. The kings, making themselves true, restored again the Brahman’s spouse—returning the power to its rightful law.
पुनः॑ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः॑ । म॒नु॒ष्याः॑ । उ॒त । राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजा॒याम् । पुनः॑ । द॒दुः॒ ॥पुनः । वै । देवाः । अददुः । पुनः । मनुष्याः । उत । राजानः । सत्यम् । कृण्वानाः । ब्रह्मजायाम् । पुनः । ददुः ॥punaḥ | vai | devāḥ | adaduḥ | punaḥ | manuṣyāḥ | uta | rājānaḥ | satyam | kṛṇvānāḥ | brahma-jāyām | punaḥ | daduḥ