Sukta 10.109
पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् । ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥
पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् । ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥
punardā́ya brahmajāyā́ṁ kṛtvī́ deváir nikilbiṣám | ū́rjaṁ pṛthivyā́ bhaktvā́yorugāyám upā́sate ||
Having given back again the Brahman’s spouse, they made their faultlessness with the gods. Sharing the earth’s strength and substance, they draw near in worship to the Wide-Stepping One—who gives the vast course of liberation.
पु॒नः॒ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वी । दे॒वैः । नि॒ऽकि॒ल्बि॒षम् । ऊर्ज॑म् । पृ॒थि॒व्याः । भ॒क्त्वाय॑ । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥पुनःदाय । ब्रह्मजायाम् । कृत्वी । देवैः । निकिल्बिषम् । ऊर्जम् । पृथिव्याः । भक्त्वाय । उरुगायम् । उप । आसते ॥punaḥ-dāya | brahma-jāyām | kṛtvī | devaiḥ | ni-kilbiṣam | ūrjam | pṛthivyāḥ | bhaktvāya | uru-gāyam | upa | āsate