Sukta 10.109
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् । तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥
ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विष॒: स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म् । तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पति॒: सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥
brahmacārī́ carati véviṣad víṣaḥ sá devā́nāṁ bhavaty ékam áṅgam | ténā jāyā́m ánv avindad bṛ́haspátiḥ sómena nītā́ṁ júhvaṁ na devā́ḥ ||
The brahmacārin moves, trembling against the poison-powers; he becomes one limb of the gods. By that force Bṛhaspati found again the spouse who had followed; led by Soma, she came like an offering-ladle to the gods—fit for the act of sacrifice within.
ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विषः॑ । सः । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् । तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त् । बृह॒स्पतिः॑ । सोमे॑न । नी॒ताम् । जु॒ह्व॑म् । न । दे॒वाः॒ ॥ब्रह्मचारी । चरति । वेविषत् । विषः । सः । देवानाम् । भवति । एकम् । अङ्गम् । तेन । जायाम् । अनु । अविन्दत् । बृहस्पतिः । सोमेन । नीताम् । जुह्वम् । न । देवाः ॥brahma-cārī | carati | veviṣat | viṣaḥ | saḥ | devānām | bhavati | ekam | aṅgam | tena | jāyām | anu | avindat | bṛhaspatiḥ | somena | nītām | juhvam | na | devāḥ