Sukta 10.109
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः । अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुन॒: प्राय॑च्छ॒दहृ॑णीयमानः । अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥
sómो rājā́ prathamó bráhma-jāyāṃ púnar práyācchad áhṛṇīyamānaḥ | anv-artitā́ váruṇo mítra āsīd agnír hótā hastagṛ́hyā nināya ||
King Soma first restored again the Bride of the Word, refusing to accept the wrong. Varuṇa and Mitra followed as guardians of the right; Agni the Hotṛ, taking her by the hand, led her onward.
सोमः॑ । राजा॑ । प्र॒थ॒मः । ब्र॒ह्म॒ऽजा॒याम् । पुन॒रिति॑ । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमानः । अ॒नु॒ऽअ॒र्ति॒ता । वरु॑णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता॑ । ह॒स्त॒ऽगृह्य॑ । आ । नि॒ना॒य॒ ॥सोमः । राजा । प्रथमः । ब्रह्मजायाम् । पुनरिति । प्र । अयच्छत् । अहृणीयमानः । अनुअर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्तगृह्य । आ । निनाय ॥somaḥ | rājā | prathamaḥ | brahma-jāyām | punariti | pra | ayacchat | ahṛṇīyamānaḥ | anu-artitā | varuṇaḥ | mitraḥ | āsīt | agniḥ | hotā | hasta-gṛhya | ā | nināya