Sukta 10.109
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥
हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् । न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥
hasténaíva grāhyà ādhír asyā brahmajāyéyam íti céd avocan | na dūtā́ya prahyè tastha eṣā́ tathā rāṣṭráṁ gupitáṁ kṣatríyasya ||
‘Only by the hand is the claim upon her to be taken,’ they said; ‘this is the Brahman’s spouse.’ She did not stand to be seized by a messenger’s grasp. Thus the kingdom of the Kṣatriya is guarded—kept within the law of Truth.
हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥हस्तेन । एव । ग्राह्यः । आधिः । अस्याः । ब्रह्मजाया । इयम् । इति । च । इत् । अवोचत् । न । दूताय । प्रह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥hastena | eva | grāhyaḥ | ādhiḥ | asyāḥ | brahma-jāyā | iyam | iti | ca | it | avocat | na | dūtāya | pra-hye | tasthe | eṣā | tathā | rāṣṭram | gupitam | kṣatriyasya