Sukta 10.108
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः । अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥
अ॒से॒न्या व॑: पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्व॑: सन्तु पा॒पीः । अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥
asen्यā́ vaḥ paṇayo vácāṃsy aniṣavyā́s tanváḥ santu pāpī́ḥ | ádhṛṣṭo va etávā astu pánthā bṛ́haspátir va ubhayā́ ná mṛḷāt ||
O Panis, your words are without a true army; let your bodies be incapable and your evil become manifest. Let the path you take be unassailable (for us, not for you): may Bṛhaspati not grant you refuge on either side.
अ॒से॒न्याः । वः॒ । प॒ण॒यः॒ । वचाँ॑म्सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः । अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥असेन्याः । वः । पणयः । वचाँम्सि । अनिषव्याः । तन्वः । सन्तु । पापीः । अधृष्टः । वः । एतवै । अस्तु । पन्थाः । बृहस्पतिः । वः । उभया । न । मृळात् ॥asenyāḥ | vaḥ | paṇayaḥ | vacāṃmsi | aniṣavyāḥ | tanvaḥ | santu | pāpīḥ | adhṛṣṭaḥ | vaḥ | etavai | astu | panthāḥ | bṛhaspatiḥ | vaḥ | ubhayā | na | mṛḷāt