Sukta 10.108
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः । रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥
अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः । रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥
ayáṃ nidhíḥ sarame ádribudhno góbhiḥ áśvebhir vásubhir ny-ṛ́ṣṭaḥ | rákṣanti táṃ paṇáyo yé su-gopā́ réku pádám álakam ā́ jagantha ||
Here is the hidden treasure, O Saramā, set down in the rock-depth, packed with Rays, with energies, with riches. The Panis guard it, good herdsmen of their darkness. Yet you have come to the track, to the mark, to the very dwelling.
अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः । रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥अयम् । निधिः । सरमे । अद्रिबुध्नः । गोभिः । अश्वेभिः । वसुभिः । निऋष्टः । रक्षन्ति । तम् । पणयः । ये । सुगोपाः । रेकु । पदम् । अलकम् । आ । जगन्थ ॥ayam | ni-dhiḥ | sarame | adri-budhnaḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | ni-ṛṣṭaḥ | rakṣanti | tam | paṇayaḥ | ye | su-gopāḥ | reku | padam | alakam | ā | jagantha