Sukta 10.108
नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् । न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥
नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् । न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥
nāháṃ táṃ véda dábhyaṃ dábhatsá yásyedáṃ dūtī́r ásaraṃ parākā́t | ná táṃ gū́hanti sraváto gabhīrā́ hatā́ índreṇa paṇáyaḥ śayadhve ||
I do not know that one who can be deceived—nor him who deceives—of whom this message has gone forth as a messenger from afar. The deep-flowing currents cannot hide him. Struck down by Indra, O Panis, you lie helpless.
न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् । न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥न । अहम् । तम् । वेद । दभ्यम् । दभत् । सः । यस्य । इदम् । दूतीः । असरम् । पराकात् । न । तम् । गूहन्ति । स्रवतः । गभीराः । हताः । इन्द्रेण । पणयः । शयध्वे ॥na | aham | tam | veda | dabhyam | dabhat | saḥ | yasya | idam | dūtīḥ | asaram | parākāt | na | tam | gūhanti | sravataḥ | gabhīrāḥ | hatāḥ | indreṇa | paṇayaḥ | śayadhve