Sukta 10.108
कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् । आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥
की॒दृङ्ङिन्द्र॑: सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् । आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥
kīdṛ́ṅ índraḥ sarame kā́ dṛśīkā́ yásyedáṃ dūtī́r ásaraḥ parākā́t | ā́ ca gácchān mitrám enā dadhāmā́thā gavā́ṃ gopátir no bhavāti ||
What kind of Indra is he, O Saramā, what is his vision, whose messenger you have come from far away? Come, let us make friendship with you by this; then he will become for us the herdsman and guardian of the cows of light.
की॒दृक् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् । आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥कीदृक् । इन्द्रः । सरमे । का । दृशीका । यस्य । इदम् । दूतीः । असरः । पराकात् । आ । च । गच्छात् । मित्रम् । एन । दधाम । अथ । गवाम् । गोपतिः । नः । भवाति ॥kīdṛk | indraḥ | sarame | kā | dṛśīkā | yasya | idam | dūtīḥ | asaraḥ | parākāt | ā | ca | gacchāt | mitram | ena | dadhāma | atha | gavām | go--patiḥ | naḥ | bhavāti