Sukta 10.108
इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः । अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥
इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्व॑: । अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥
índrasya dūtī́r iṣitā́ carāmi mahá icchántī paṇáyo nidhī́n vaḥ | atiṣkádó bhiyásā tán na ā́vat táthā rasā́yā ataraṃ páyāṃsi ||
I move as Indra’s messenger, driven by his command, seeking the great treasure that you Paṇis have hidden. A leap beyond, through fear, carried me to it; thus I crossed the waters of Rasā.
इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ । अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । निधीन् । वः । अतिस्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि ॥indrasya | dūtīḥ | iṣitā | carāmi | mahaḥ | icchantī | paṇayaḥ | ni-dhīn | vaḥ | ati-skadaḥ | bhiyasā | tam | naḥ | āvat | tathā | rasāyāḥ | ataram | payāṃsi