Sukta 10.108
नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः । गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥
नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः । गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥
nāháṃ véda bhrātṛtváṃ nó svasṛtvám índro vidúr áṅgirasas ca ghorā́ḥ | gokā́mā me acchadayan yád ā́yam apā́ta ít paṇayo varī́yaḥ ||
I know nothing of brotherhood or sisterhood; Indra knows, and the dread Aṅgirases. These cow-desiring powers have tried to veil me; therefore, O Panis, go far away—depart to a wider distance.
न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः । गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥न । अहम् । वेद । भ्रातृत्वम् । नो इति । स्वसृत्वम् । इन्द्रः । विदुः । अङ्गिरसः । च । घोराः । गोकामाः । मे । अच्छदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरीयः ॥na | aham | veda | bhrātṛ-tvam | no iti | svasṛ-tvam | indraḥ | viduḥ | aṅgirasaḥ | ca | ghorāḥ | go--kāmāḥ | me | acchadayan | yat | āyam | apa | ataḥ | ita | paṇayaḥ | varīyaḥ