Sukta 10.106
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै । इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् ॥
आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै । इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टम् ॥
āpī́ vo asmè pitaréva putrógrèva rucā́ nṛpatī́va turyái | iryéva puṣṭyái kiraṇéva bhujyái śruṣṭīvā́neva hávam ā́ gamiṣṭam ||
Be near to us as fathers to a son; be fierce in your light for our swift victory like lords of men. Like warriors for increase, like rays for enjoyment, like those who heed—come to our call.
आ॒पी इति॑ । वः॒ । अ॒स्मे इति॑ । पि॒तरा॑ऽइव । पु॒त्रा । उ॒ग्राऽइ॑व । रु॒चा । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । तु॒र्यै । इर्या॑ऽइव । पु॒ष्ट्यै । कि॒रणा॑ऽइव । भु॒ज्यै । श्रु॒ष्टी॒वाना॑ऽइव । हव॑म् । आ । ग॒मि॒ष्ट॒म् ॥आपी इति । वः । अस्मे इति । पितराइव । पुत्रा । उग्राइव । रुचा । नृपती इवेति नृपतीइव । तुर्यै । इर्याइव । पुष्ट्यै । किरणाइव । भुज्यै । श्रुष्टीवानाइव । हवम् । आ । गमिष्टम् ॥āpī iti | vaḥ | asme iti | pitarāiva | putrā | ugrāiva | rucā | nṛpatīivetinṛpatī-iva | turyai | iryāiva | puṣṭyai | kiraṇāiva | bhujyai | śruṣṭīvānāiva | havam | ā | gamiṣṭam