Sukta 10.106
साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् । अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥
सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् । अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥
sākáṃyujā śakunásyeva pakṣā́ paśvéva citrā́ yájurā́ gamiṣṭam | agníriva devayór dīdivā́ṃsā parijmā́neva yajathaḥ purutrā́ ||
United together like the wings of a bird, like many-coloured herds you come with the yajus-formula. Shining like Agni for the gods, you move around and sacrifice in many places, as a circling course.
सा॒क॒म्ऽयुजा॑ । श॒कु॒नस्य॑ऽइव । प॒क्षा । प॒श्वाऽइ॑व । चि॒त्रा । यजुः॑ । आ । ग॒मि॒ष्ट॒म् । अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॒दि॒ऽवांसा॑ । परि॑ज्मानाऽइव । य॒ज॒थः॒ । पु॒रु॒ऽत्रा ॥साकम्युजा । शकुनस्यइव । पक्षा । पश्वाइव । चित्रा । यजुः । आ । गमिष्टम् । अग्निःइव । देवयोः । दीदिवांसा । परिज्मानाइव । यजथः । पुरुत्रा ॥sākam-yujā | śakunasya-iva | pakṣā | paśvāiva | citrā | yajuḥ | ā | gamiṣṭam | agniḥ-iva | deva-yoḥ | dīdi-vāṃsā | parijmānāiva | yajathaḥ | puru-trā