Sukta 10.106
उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः । दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥
उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथ॑: । दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥
uṣṭā́reva phárvareṣu śrayethe prāyogéva śvā́tryā śā́súretháḥ | dūtéva hí ṣṭhó yaśásā jáneṣu mā́pa sthātaṃ mahiṣéva avapānā́t ||
Like camels among the rough tracks you find support; like skilled archers at the encounter you come to command. Like messengers you stand among men with glory; do not fall away from the outpouring, like a bull from the watering-place.
उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ । दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥उष्टाराइव । फर्वरेषु । श्रयेथे इति । प्रायोगाइव । श्वात्र्या । शासुः । आ । इथः । दूताइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाइव । अवपानात् ॥uṣṭārāiva | pharvareṣu | śrayetheiti | prāyogāiva | śvātryā | śāsuḥ | ā | ithaḥ | dūtāiva | hi | sthaḥ | yaśasā | janeṣu | mā | apa | sthātam | mahiṣāiva | ava-pānāt