Sukta 10.106
उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
ubhā́ u nūnáṃ tád íd arthayethe ví tanvāthe dhíyo vástrāpaséva | sadhrīcīnā́ yātáve préma-jīgaḥ sudíneva pṛ́kṣa ā́ taṃsayethe ||
You two now seek that very aim; you spread out the thoughts like weavers of cloth by the work. Moving in one direction for the journey, you drive the impulse forward; like a fair day’s brightness you draw near and settle the strengthening.
उ॒भौ । ऊँ॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥उभौ । ऊँ इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाइव । सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाइव । पृक्षः । आ । तंसयेथे इति ॥ubhau | oṃ iti | nūnam | tat | it | arthayetheiti | vi | tanvātheiti | dhiyaḥ | vastrā | apasāiva | sadhrīcīnā | yātave | pra | īm | ajīgaḥ | sudināiva | pṛkṣaḥ | ā | taṃsayetheiti