Sukta 10.104
असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् । तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥
असा॑वि॒ सोम॑: पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् । तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥
asā́vi sómaḥ puruhūta túbhyaṃ háribhyāṃ yajñám úpa yāhi tū́yam | túbhyaṃ gíro vípravīrā iyānā́ dadhanvír índra píbā sutásya ||
The Soma has been pressed for thee, O much-invoked Indra; come swiftly to the offering with thy tawny powers. For thee the inspired words, rich in seer-force, move forward and are set in place; O Indra, drink of the pressed delight—enter the human vessel and enlarge the luminous might.
असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् । तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥असावि । सोमः । पुरुहूत । तुभ्यम् । हरिभ्याम् । यज्ञम् । उप । याहि । तूयम् । तुभ्यम् । गिरः । विप्रवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥asāvi | somaḥ | puru-hūta | tubhyam | hari-bhyām | yajñam | upa | yāhi | tūyam | tubhyam | giraḥ | vipra-vīrāḥ | iyānāḥ | dadhanvire | indra | piba | sutasya