Sukta 10.103
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nāṃ marútāṃ śárdha ugrám | mahā́manasāṃ bhuvanacyavānā́ṃ ghóṣo devā́nāṃ jáyatām úd asthāt ||
Of Indra the Bull, of Varuṇa the King, of the Ādityas, of the Maruts—the fierce host; of the great-minded who shake the worlds: the victorious cry of the gods has risen up.
इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् । म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् । महामनसाम् । भुवनच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥indrasya | vṛṣṇaḥ | varuṇasya | rājñaḥ | ādityānām | marutām | śardhaḥ | ugram | mahāmanasām | bhuvana-cyavānām | ghoṣaḥ | devānām | jayatām | ut | asthāt