Sukta 10.103
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ॥
úddharṣaya maghavann ā́yudhāny utsátvanāṃ māmakā́nāṃ mánāṃsi | úd vṛtrahan vā́jināṃ vā́jināny úd ráthānāṃ jáyatāṃ yántu ghóṣāḥ ||
Rouse up, O Maghavan, the weapons; rouse up the hearts of my fighters. O slayer of Vṛtra, lift up the plenitudes of the strong; lift up the chariots—let the cries of the victorious go forth.
उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि । उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥उत् । हर्षय । मघवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि । उत् । वृत्रहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥ut | harṣaya | magha-van | āyudhāni | ut | satvanām | māmakānām | manāṃsi | ut | vṛtra-han | vājinām | vājināni | ut | rathānām | jayatām | yantu | ghoṣāḥ