Previous Mantra
Next Mantra

Mantra 8

Sukta 10.103

Devata: Collective: Indra, Brihaspati, Soma, Maruts (devasenā)
Chandas: Trishtubh (probable)

इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥

índra āsā́ṃ netā́ bṛ́haspátir dákṣiṇā yajñáḥ purá etu sómaḥ | devasenā́nām abhibhañjatīnā́ṃ jáyantīnāṃ marúto yántv ágram ||

Indra be their leader, Brihaspati their guiding power; let Dakṣiṇā, the yajña, go in front—let Soma advance. Of the divine hosts that shatter the opposing, that are victorious, let the Maruts go at the head.

इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ । दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः । देवसेनानाम् । अभिभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥indraḥ | āsām | netā | bṛhaspatiḥ | dakṣiṇā | yajñaḥ | puraḥ | etu | somaḥ | deva-senānām | abhi-bhañjatīnām | jayantīnām | marutaḥ | yantu | agram

इन्द्रःIndra
इन्द्रः:
कर्तृ
TypeNoun
Rootइन्द्र (प्रातिपदिक)
आसाम्of these (women/hosts)
आसाम्:
सम्बन्ध (षष्ठी)
TypePronoun
Rootइदम् (सर्वनाम-प्रातिपदिक)
नेताleader
नेता:
कर्तृ (विशेषण/उपपद-सम्बन्धः इन्द्रस्य)
TypeNoun
Rootनी (धातु) → नेतृ (कृदन्त-प्रातिपदिक)
बृहस्पतिःBṛhaspati
बृहस्पतिः:
कर्तृ
TypeNoun
Rootबृहस्पति (प्रातिपदिक)
दक्षिणाthe sacrificial fee/gift
दक्षिणा:
कर्तृ
TypeNoun
Rootदक्षिणा (प्रातिपदिक)
यज्ञःthe sacrifice
यज्ञः:
कर्तृ
TypeNoun
Rootयज्ञ (प्रातिपदिक)
पुरःin front, forth
पुरः:
अधिकरण (दिशा/स्थान-निर्देशः)
TypeIndeclinable
Rootपुरस् (अव्यय/उपसर्गार्थक)
एतुlet (him/it) go/advance
एतु:
क्रिया
TypeVerb
Rootइ (धातु)
सोमःSoma
सोमः:
कर्तृ
TypeNoun
Rootसोम (प्रातिपदिक)
देवसेनानाम्of the divine armies
देवसेनानाम्:
सम्बन्ध (षष्ठी)
TypeNoun
Rootदेवसेना (समास-प्रातिपदिक: देव + सेना)
अभिभञ्जतीनाम्of those who are shattering/overpowering
अभिभञ्जतीनाम्:
सम्बन्ध (षष्ठी; देवसेनानाम्-विशेषणम्)
TypeParticiple
Rootअभि-भञ्ज् (धातु) → अभिभञ्जत् (वर्तमान-कृदन्त, शतृ)
जयन्तीनाम्of the victorious (ones)
जयन्तीनाम्:
सम्बन्ध (षष्ठी; देवसेनानाम्-विशेषणम्)
TypeParticiple/Adjective
Rootजि (धातु) → जयन्ती (वर्तमान-कृदन्त/विशेषण-प्रातिपदिक)
मरुतःthe Maruts
मरुतः:
कर्तृ
TypeNoun
Rootमरुत् (प्रातिपदिक)
यन्तुlet them go/advance
यन्तु:
क्रिया
TypeVerb
Rootया (धातु)
अग्रम्the front/foremost place
अग्रम्:
कर्म
TypeNoun
Rootअग्र (प्रातिपदिक)