Sukta 10.103
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाळयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
abhí gotrā́ṇi sáhasā gā́hamāno ’dayo vī́raḥ śatámanyur índraḥ | duścyavanáḥ pṛtanāṣā́ḷ ayudhyò ’smā́kaṃ sénā avatu prá yútsu ||
Pressing into the enclosures by force, the merciless hero, Indra of a hundred impulses of wrath and energy; hard to dislodge, conqueror of battles, unconquerable—may he help our hosts in the forward clashes.
अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ । दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः॑ । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतमन्युः । इन्द्रः । दुःच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्सु ॥abhi | gotrāṇi | sahasā | gāhamānaḥ | adayaḥ | vīraḥ | śata-manyuḥ | indraḥ | duḥ-cyavanaḥ | pṛtanāṣāṭ | ayudhyaḥ | asmākam | senāḥ | avatu | pra | yut-su