Sukta 10.103
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥
gotrabhídaṃ govídaṃ vájrabāhuṃ jáyantam ájma pramṛṇántam ójasā | imáṃ sajātā́ ánu vīrayadhvam índraṃ sakhāyo ánu sáṃ rabhadhvam ||
The breaker of the enclosures, the finder of the Rays, the arm of the thunderbolt—victorious, crushing by force in the onset: follow him, O kindred powers; grow heroic after him; O comrades, take hold together of Indra.
गो॒त्रऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा । इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥गोत्रभिदम् । गोविदम् । वज्रबाहुम् । जयन्तम् । अज्म । प्रमृणन्तम् । ओजसा । इमम् । सजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥gotra-bhidam | go--vidam | vajra-bāhum | jayantam | ajma | pra-mṛṇantam | ojasā | imam | sa-jātāḥ | anu | vīrayadhvam | indram | sakhāyaḥ | anu | sam | rabhadhvam