Sukta 10.103
बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥
bṛ́haspate pári dīyā́ ráthena rakṣohā́mitrā́n apabā́dhamānaḥ | prabhañján sénāḥ pramṛṇó yudhā́ jáyan asmā́kam edhy avitā́ ráthānām ||
O Brihaspati, circle on with your chariot, slayer of the devouring darkness, thrusting away the hostile powers; shattering the hosts, crushing them in the battle, victorious—be for us the increaser, the protector of our movements (our chariots of progress).
बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः । प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥बृहस्पते । परि । दीय । रथेन । रक्षःहा । अमित्रान् । अपबाधमानः । प्रभञ्जन् । सेनाः । प्रमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥bṛhaspate | pari | dīya | rathena | rakṣaḥ-hā | amitrān | apa-bādhamānaḥ | pra-bhañjan | senāḥ | pra-mṛṇaḥ | yudhā | jayan | asmākam | edhi | avitā | rathānām