Sukta 10.103
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥
स इषु॑हस्तै॒: स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
sá iṣúhastaiḥ sá niṣaṅgíbhir vaśī́ saṃsrā́ṣṭā sá yúdha índro gaṇéna | saṃsṛṣṭajít sómapā bāhuśardhī́ ugrádhanvā práti-hitābhir ástā ||
He with the arrow-bearers, he with the sword-bearers—master and arranger—he, Indra, with the troop in the battle; victorious in the close-pressed encounter, Soma-drinker, strong in the arm-bands, fierce in the bow, the archer with well-aimed castings.
सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ । सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥सः । इषुहस्तैः । सः । निषङ्गिभिः । वशी । सम्स्रष्टा । सः । युधः । इन्द्रः । गणेन । संसृष्टजित् । सोमपाः । बाहुशर्धी । उग्रधन्वा । प्रतिहिताभिः । अस्ता ॥saḥ | iṣu-hastaiḥ | saḥ | niṣaṅgi-bhiḥ | vaśī | sam-sraṣṭā | saḥ | yudhaḥ | indraḥ | gaṇena | saṃsṛṣṭa-jit | soma-pāḥ | bāhu-śardhī | ugra-dhanvā | prati-hitābhiḥ | astā