Sukta 10.103
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
saṃkrándanenānimiṣéṇa jiṣṇúnā yutkāŕeṇa duścyavanéna dhṛṣṇúnā | tád índreṇa jayata tát sahadhvaṃ yúdho nara iṣúhastena vṛ́ṣṇā ||
By the rallying cry, by the unblinking wakefulness, by the conquering power, by the battle-shout, by the unshakable drive, by the daring might—by that Indra win; in that join together, O fighters, with the Bull who bears the arrows (the directed rays of force).
स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ । तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥सम्क्रन्दनेन । अनिमिषेण । जिष्णुना । युत्कारेण । दुःच्यवनेन । धृष्णुना । तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुहस्तेन । वृष्णा ॥sam-krandanena | ani-miṣeṇa | jiṣṇunā | yut-kāreṇa | duḥ-cyavanena | dhṛṣṇunā | tat | indreṇa | jayata | tat | sahadhvam | yudhaḥ | naraḥ | iṣu-hastena | vṛṣṇā